|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.24. अध्यायः 024
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्षया द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्ष्या द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम्॥ 1 ॥
16-24-0(97801)
वैशम्पायन उवाच। 16-24-0x(8052)
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः।
स्मरन्तो मातरं वीरा बभूवुर्भशदुःखिताः॥ 16-24-1(97802)
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे॥ 16-24-2(97803)
प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन्॥ 16-24-3(97804)
ते स्म वीरा दुराधर्षा गांभीर्ये सागरोपमाः।
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्॥ 16-24-4(97805)
अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा॥ 16-24-5(97806)
कथं च स महीपालो हतपुत्रो निराश्रयः।
पत्न्या सह वसत्येको वने श्वापदसेविते॥ 16-24-6(97807)
सा च देवी महाभागा गान्धारी हतबान्धवा।
पतिमन्धं कथं वृद्धमन्वेति विजने वने॥ 16-24-7(97808)
एवं तेषां कथयतामौत्सुक्यमभवत्तदा।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया॥ 16-24-8(97809)
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्।
अहो मे भवतो दृष्टं हृदयं गमनं प्रति। 16-24-9(97810)
न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्॥ 16-24-10(97811)
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्।
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्॥ 16-24-11(97812)
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्।
कदानुजननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्॥ 16-24-12(97813)
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ।
कुन्ती राजसुता यत्र वसत्यसुखिता वने॥ 16-24-13(97814)
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा।
उवाच देवी राजानमभिपूज्याभिनन्द्य च। 16-24-14(97815)
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप॥ 16-24-15(97816)
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः।
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि॥ 16-24-16(97817)
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वसुरस्च च॥ 16-24-17(97818)
इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ।
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह॥ 16-24-18(97819)
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्।
द्रक्ष्यामि वनसंस्थं च धृताष्ट्रं महीपतिम्॥ 16-24-19(97820)
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः॥ 16-24-20(97821)
शकटापणवेशाश्च कोशः शिल्पिन एव च।
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति॥ 16-24-21(97822)
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्।
अनावृतः सुविहितः स च यातु सुरक्षितः॥ 16-24-22(97823)
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम॥ 16-24-23(97824)
प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम्।
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च। 16-24-24(97825)
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः।
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः॥ 16-24-25(97826)
स बहिर्दिवसानेव जनौघं परिपालयन्।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति॥ ॥ 16-24-26(97827)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-24-17 अप्रपादस्थितं प्रयाणार्थं पुरस्कृतेनैव पादेन स्थितम्। अत्यन्तमुत्सुकमित्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|